Shiv Bilvashtakam : श्री शिव बिल्वाष्टकम

शिव बिल्वाष्टकम

श्री बिल्वाष्टकम् : : ॐ नमः शिवाय

त्रिदलंनिित्रगुणाकारं त्रिनेत्रं च त्रयायुधम् ।
त्रिजन्मपापसंहार- मेकबिल्वंशिवार्पणम् ॥

त्रिशाखैर्बिल्वपत्रैश्च ह्याच्छिद्रैः कोमलैः शुभैः ॥
शिवपूजां करिष्यामि ह्योकबिल्वं शिवार्पणम् ॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्धयन्ति सर्वपापेभ्यो ह्योकबिल्वं शिवार्पणम् ॥

शालग्रामशिलामेकं विप्राणां जातु अर्पयेतत् ॥
सोमयज्ञ महापुण्य-मेकबिल्वं शिवार्पणम् ॥

दन्तिकोटिसहस्त्राणि वाजपेयशतानि च ।
कोटिकन्या महादान-मेकाबिल्वं शिवार्पणम् ॥

लक्ष्मयाः स्तनत उत्पन्नं महादेवस्य च प्रियम् ॥
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्व शिर्वाणम् ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ॥
अघोरपापसंहार – मेकबिल्वशिवर्पणम् ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ॥
अगृहतः शिवरूपाय ह्योकबिल्वं शिवार्पणम् ॥

बिल्वाष्टकमिन्द पुण्यं यः पठेच्छिवसन्निधौ ॥
सर्पपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥

॥ इति श्रीबिल्वाष्टकं संपूर्णम् ॥

Leave a comment